Lingopanishad in Hindi

Please share it

Lingopanishad in Hindi

लिङ्गोपनिषत् अथर्ववेद की एक गूढ़ उपनिषद् है, जो “लिङ्ग” को केवल शिव के पूजन का प्रतीक नहीं, बल्कि सम्पूर्ण सृष्टि में व्याप्त परम चेतना का रूप मानती है। इसमें बताया गया है कि लिङ्ग पंचमहाभूतों से बना ब्रह्म का द्योतक है और उसका सच्चा अर्थ है ज्ञान, आत्मबोध और मोक्ष। लिङ्गधारण का उद्देश्य केवल बाहरी चिन्ह धारण करना नहीं, बल्कि अपने भीतर शिवतत्त्व की अनुभूति करना है। जो साधक अपने शरीर, मन और आत्मा में लिङ्ग का स्थापन करता है, वह “कैवल्य” अर्थात् परम मुक्त अवस्था को प्राप्त करता है। इस प्रकार, लिङ्गोपनिषत् मनुष्य को यह सिखाती है कि सच्चा लिङ्ग आत्मज्ञान और ईश्वरीय चेतना की एकता का प्रतीक है।

लिङ्गोपनिषद

ओं धर्मजिज्ञासा । ज्ञानं बुद्धिश्च । ज्ञानान्मोक्षकारणम् । मोक्षान्मुक्तिस्वरूपम् । तथा ब्रह्मज्ञानाद्बुद्धिश्च । लिङ्गैक्यं देहो लिङ्गभेदे न । अज्ञानात् ज्ञानं बुद्धिश्च । चतुर्वर्णानां धारणां कुर्यात् । पशुपक्षिमृगकीटकलिङ्गधारणमुच्यते । पञ्चबन्धस्वरूपेण पञ्चबन्धा ज्ञानस्वरूपाः । पिण्डाज्जननम् । तज्जननकाले धारणमुच्यते । “सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रम्”, “अयं मे हस्तो भगवान्” इति धारयेत् । “या ते रुद्र शिवा तनूरघोराऽपापकाशिनी”, “रुद्रपते जनिमा चारु चित्रम्”, “वयं सोम व्रते तव । मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहि । “, “त्रियंबकं यजामहे” इति धारयेत् । ब्राह्मणानां धारणां कुर्यात् । “पवित्रं ते विततं ब्रह्मणस्पते”, “सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् । अवस्यतं मुंचतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् । सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् । ” इति प्राकट्यं कुर्यात् । न कुर्यात्पशुभाषणम् । श्रौतानामुपनयनकाले धारणम् । चतुर्थाश्रमः संन्यासाः । पञ्चमो लिङ्गधारणम् । अत्याश्रमाणां मध्ये लिङ्गधारी श्रेष्ठो भवति । शिरसि महादेवस्तिष्ठतु इति धारयेत् । अन्यायो न्यायः । पृथिव्यापस्तेजो वायुराकाश इति पञ्चस्वरूपं लिङ्गम् । त्वक्छ्रोत्रनेत्रजिह्वाघ्राणपञ्चस्वरूपमिति लिङ्गम् । रेतोबुद्ध्यापमनः स्वरूपमिति लिङ्गम् । सङ्कल्प इति लिङ्गम् । ज्योतिरहं विरजा विपाप्मां भूयासं स्वरूपमिति लिङ्गम् । व्रतं चरेत् । सन्तिष्ठेन्नियमेन । सर्वं शांभवीरूपम् । शांभवी विद्योच्यते । चरेदेतानि सूत्राणि । पञ्चमुखं पञ्चस्वरूपं पञ्चाक्षरं पञ्चसूत्रं ज्ञानम् । सिद्धिर्भवत्येव । ज्ञानाद्धारणं लिङ्गदेहप्रकार उच्यते । शिरःपाणिपादपायूपस्थं सर्वं लिङ्गस्वरूपम् । ब्राह्मणो वदेत् ॥

ओंकारो बाणः शक्तिरेव पीठं सिन्दूरवर्णं सर्वं लिङ्गस्वरूपम् । कैवल्यं केवलं विद्यात् । व्यवहारपरः स्यात् । प्राण एव प्राणः । पूर्वं ब्रह्मा पीठम् । विष्णुर्बाणः । रुद्रः स्वरूपम् । सर्वभूतैरथापरित्याज्यश्च । विग्रहमनुग्रहलिङ्गेषु शक्तिकपालेषु सर्ववशङ्करं विद्यात् । जातिविषयान् त्यजेत् । श्रौताश्रौतेषु धारणम् । वेदोक्तविधिना श्रौतं तद्रहितमश्रौतम् । सर्ववर्णेषु धारणं कैलाससिद्धिर्भवति । धारणं देहे कैलासस्वरूपम् । धारणं देहे कैवल्यस्वरूपम् । धारणं देहे प्रणवस्वरूपम् । धारणं देहे वेदस्वरूपम् । धारणं देहे ब्रह्मस्वरूपम् । धारणं देहे शिवस्वरूपम् । शिरसि बाणं बाहुनाभिपीठप्रकृतिरूपकं देहे धारणं यस्य न विद्यते तद्देहं न पश्येत् । शिरःकपालं केशान् न कुर्यात् । शिरःपीठं लिङ्गात्मकं सर्वम् । शांभवीविग्रह उच्यते । प्राणादिलिङ्गस्वरूपं गुरोलिङ्गम् । गुरुसंभवात्मकं लिङ्गं प्रगुरोः । ततः प्रथमं प्रणिपतति । प्रणवस्वरूपं लिङ्गं ब्रह्मलिङ्गम् । प्रकाशात्मकं लिङ्गं विद्यालिङ्गम् । विद्यालिङ्गं ज्ञानस्वरूपम् । लिङ्गं प्रचरेच्छास्त्रात् । लिङ्गस्वरूपेयं सिद्विर्भविष्यति । सर्वदेहेषु लिङ्गधारणं भवति । इति वेदपुरुषो मन्यते । महापुरुषोपेतं यो वेद स एव नित्यपूतस्थः । स एव नित्यपूतस्थः स्याद्दैवलौकिकः पुरुषः । स एवामुष्मिकपुरुष इति मन्यन्ते । जीवात्मा परमात्मा च स एवोच्यते । इष्टप्राणाभावेषु लिङ्गधारणं वदन्ति । इष्टे धारणम् । तिस्रः पुरस्त्रिपदा विश्वचर्षणी । पुरनाशे लिङ्गस्वरूपाज्ञासिद्धिर्भवत्यवज्ञानेऽसति । संयुक्तं लिङ्गं मोक्ष एव भवत्येव । मोक्षमेव धारणं विद्यात् । उशन्तीव मातरं कुर्यात् ।
इत्येवं वेदेत्युपनिषत् । ओं तत्सत् ॥

इति लिङ्गोपनिषत् समाप्ता ।

Please readश्री दक्षिणामूर्ति दण्डकम्

Please share it

Leave a Comment