Dakshinamurthy Stotram in Hindi-दक्षिणामूर्ति स्तोत्रम्

Please share it

Dakshinamurthy Stotram in Hindi

दक्षिणामूर्ति स्तोत्रम् एक पवित्र स्तोत्र है जो भगवान शिव के दक्षिणामूर्ति स्वरूप की महिमा का वर्णन करता है। इस स्तोत्र की रचना आदि शंकराचार्य जी ने की थी।
इस रूप में, भगवान शिव को आदिगुरु या परमगुरु कहा जाता है, जो सम्पूर्ण ज्ञान और चेतना के स्वरूप हैं।

ऐसा माना जाता है कि जिनके पास कोई गुरु नहीं है, वे भगवान दक्षिणामूर्ति को अपना आध्यात्मिक गुरु मानकर उनकी उपासना कर सकते हैं।
आप दक्षिणामूर्ति स्तोत्रम् के हिंदी पाठ (PDF) यहाँ प्राप्त कर सकते हैं और श्रद्धा व भक्ति के साथ इसका पाठ करके भगवान शिव के आशीर्वाद प्राप्त कर सकते हैं।

 श्री दक्षिणामूर्ति स्तोत्रम्

शान्तिपाठः

ॐ यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥

ध्यानम्

ॐ मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं
वर्षिष्ठान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिं
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ 1 ॥

वटविटपिसमीपेभूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि ॥ 2 ॥

चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥ 3 ॥

निधये सर्वविद्यानां भिषजे भवरोगिणाम् ।
गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥ 4 ॥

ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥ 5 ॥

चिद्घनाय महेशाय वटमूलनिवासिने ।
सच्चिदानन्दरूपाय दक्षिणामूर्तये नमः ॥ 6 ॥

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने ।
व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ 7 ॥

अङ्गुष्ठतर्जनी योगमुद्रा व्याजेनयोगिनाम् ।
शृत्यर्थं ब्रह्मजीवैक्यं दर्शयन्योगता शिवः ॥ 8 ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

दक्षिणामूर्ति स्तोत्रम्

विश्वं दर्पण-दृश्यमान-नगरी तुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यस्साक्षात्कुरुते प्रभोधसमये स्वात्मानमे वाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 1 ॥

बीजस्यान्तरि-वाङ्कुरो जगदितं प्राङ्निर्विकल्पं पुनः
मायाकल्पित देशकालकलना वैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 2 ॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते
साक्षात्तत्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यस्साक्षात्करणाद्भवेन्न पुरनावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 3 ॥

नानाच्छिद्र घटोदर स्थित महादीप प्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 4 ॥

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्री बालान्ध जडोपमास्त्वहमिति भ्रान्ताभृशं वादिनः ।
मायाशक्ति विलासकल्पित महाव्यामोह संहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 5 ॥

राहुग्रस्त दिवाकरेन्दु सदृशो माया समाच्छादनात्
सन्मात्रः करणोप संहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रभोदसमये यः प्रत्यभिज्ञायते
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 6 ॥

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्ता स्वनु वर्तमान महमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 7 ॥

विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः
शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 8 ॥

भूरम्भांस्यनलोऽनिलोम्बर महर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 9 ॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे
तेनास्व श्रवणात्तदर्थ मननाद्ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्व महाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्य-मव्याहतम् ॥ 10 ॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं दक्षिणामूर्तिस्तोत्रं सम्पूर्णम् ॥

Also read : श्री दुर्गा चालीसा 

Please share it

Leave a Comment